________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्वं शम्भवः संभवतर्ष रोगः सन्तप्यमानस्य. जनस्य लोके । आसीरिहाकस्मिक एव वैद्यो वैद्यो यथानाथ १ रुजां प्रशान्त्यै ॥१॥ अनित्यमत्राणमहंक्रियाभिः प्रसक्तमिथ्याध्यवसायदोषः । इदं जगज्जन्मजरान्तकात निरञ्जनां शान्तिमजीगमस्त्वम् ॥२॥ शतहृदोन्मेषचलं हि सौख्यं तृष्णामयाप्यायनमात्रहेतुः । ष्णाभिवृद्धिश्व तपत्यजन तापरतदायासयतीत्यवादीः ॥३॥ बन्धश्च मोक्षश्च तयोश्च हेतुर्बद्धश्च मुक्तश्च फलं च मुक्तेः । स्याद्वादिनो नाथ तवैव युक्तं नैकान्तद्दष्टेस्त्वमतोऽसि शास्ता ॥४॥ शकोऽप्यशक्तस्तवपुण्यकीर्तेः स्तुत्यां प्रवृत्तः किमुमादशोऽज्ञः । तथापि भक्तया स्तुतपादपद्मो ममार्य ? देयाः शिवतातिमुच्चैः॥५॥
For Private And Personal Use Only