________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीपद्मसागरसूरिमहाराजस्य प्रशस्तिकाव्यम्
( वसन्ततिलका )
श्रीपद्मसागरशुभाभिधसश्विर्यः पद्मालयाधव सुभावजिनौघचच्चः । यस्मिन्दय(र्जवनयाद्यखिला गुणा वै राजन्तेव सहजाः किमु सूखिये ॥१॥ शोभास्पदं भुवि यथैव हि पद्मपुष्प' लोकप्रमोदद मतीव सुगन्धिपूर्णम् । श्रीपद्मसागर मुनिप्रवरस्तथैव सौगन्ध्यसर्वगुणसौष्ठव धर्मशोभः ||२||
(रथोद्धता )
यः सदैव दयया तितिक्षया चार्जवेन विनयेन जन्तुषु । वर्तन' प्रियतया चरंस्तथा पद्मसागरमुनिर्जयत्यसौ ॥३॥ साध्नुवन्ति परकार्य संहति साधवस्त इह तारयन्ति च । ये समान्स्वयमपीह तरन्ति साधुतां जगति सार्थयन्ति ते ॥ ४॥ पद्मसागरमुनौ गभीरता सागरस्य ननु शोभते सदा । भीरुता हि नहि तत्त्वविज्जने धर्ममागतिकारिणि क्वचित् ||५|| धर्म एव सुखसाधनं नॄणां धर्म एव धनमुत्तमोत्तमम् । धर्म एव परलोकसत्सुहृद् धर्मकर्मनिरता हि साधवः ।।६।। शास्त्रपुञ्जमवलोकनप्रियः श्रावकानुपदिशन्निरन्तरम् । जीवनं निजजनुः कृतार्थयन् पद्मसागरमुनिर्जयत्यसौ ||७|| (आर्या)
धरणेन्द्र सागरमुनेः शुभनोपनयादिवर्णनं लिखितम् । श्री पद्मसागरमुनेत्तदेशिक वरस्य काव्यमिदम् ||८||
(अनुष्टुप्)
शुक्लावटङ्कधरनिर्भयशंकरसूनुना ।
शास्त्रिणा लिखितं वृत्त विजयाभिध शम्भुना ॥ ९॥
For Private And Personal Use Only