________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(शालिनीवृत्तम्) वन्दे देवं संभवं भावतस्तं, सेनाजातं योजिताशं सदालम् । बाह्याबाह्यं विद्विषां चाजयद्धे, सेनाजातं यो जिताशं सदालं ॥१॥ सल्लोकं तेऽवन्तु तत्त्वेऽतिसत्त्वाः, सर्वज्ञा-लीनं-दिताशाविचित्राः। स्तोत्यानन्दाद्यानमानप्रमाणान्, सर्वज्ञालीनदिताशाविचित्राः ॥२॥ सद्यो-वद्यं हन्तु हृद्यार्थसार्थः, सिद्धान्तोयं सञ्जनानामपारः । बुद्धिं यच्छन् कुड्मलध्वंसने सत्, सिद्धान्तोयं सज्जनानामपा-रः ॥३॥ दद्यान्मोदं श्रृङ्खला वनपूर्वा, देवी तारा हार सास-धिकारी । पद्मे वासं संदधाना सदानं, दे-वीतारा हारसारा धिका रा ॥४॥
'
For Private And Personal Use Only