________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीमद्विजयलब्धिसूरीश्वरजी
(उपजातो)
भवाम्ब्रुराशिबुडितान् जनान् यो ररक्ष सत्त्वप्रतिपालदक्षः । खगेशचिह्नाङ्कितसक्थिदेशं तं सम्भवं तीर्थपतिं नमामि ॥१॥
विध्वस्तरागादिगणा महान्तो दयासरिज्जन्मनिदानभूताः । समस्तजीवार्चितपादपद्माः पुनन्तु सार्वज्ञमहर्द्ध यो नः ॥२॥
प्रभोर्वचोऽनन्ततमःप्रहारि सत्तत्त्वरत्नप्रतिभासदक्षम् । गतिभ्रमिकलान्तजनावलम्वं जीयाज्जगच्छान्तिसुधाप्रवर्षि ॥३॥
आज्ञारता श्रीदुरितारिदेवी हन्त्री प्रभोश्शासनविघ्नकढन् । देवादिभिः सेवितपादपद्मा जयं विदध्याज्जिनशासनस्य ॥४॥
For Private And Personal Use Only