________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૧૨
वसन्ततिलकावृत्तम् जेतुं रिपुं विहित हीनदशं भवं ते यं योगिनोऽपि विनुवन्ति भृशं भवन्तम् त्वां स्तौमि देव ? तनुधीरपि शम्भवंतं तद्रक्ष मां विषमदुःखवशं भवन्तम् ॥ श्री मेरुविजयजोः
द्रुतविलम्बितवृत्तम् अतुलजन्तुमलक्षयकारिणी विबुधवृन्दमुदं प्रवितन्वती । तवक शम्भव ? कीर्तिततिर्नभः सरिदिवारिदिवाकरजार्जन् ।। श्री हेमविजयजी
यमकबद्ध द्रुतविलम्बित यदुपमां वसुधा न सुधास्वधाच्छ्रितसुरासु भुजङ्गभरासु च । कुरु दृशं मयि शम्भव ? धीरतानगविभो ? गवि भोगविभोर्जितः ।।
श्री न्यायसागरजी
यमकबद्ध द्रुतविलम्बित जिन् ? वहे नवहेममनोहरं सुहृदिसं हृदि शम्भव ? मूर्तिमत् । तव महोऽवमहोमह्य दानना?ऽवनमहीनम-हीन चतुष्टयम् ॥ श्री शान्तिवंद्रजी
यमकबद्ध द्रुतविलम्बित हरिकलाङ्क ? कलकलाकदा जितजितारितनूरुह ? नो सह । सभव शम्भव शाम्भवदेव १ मे भव भयानि निरस्य तु पश्य माम् ।। सुशीलसूरि
द्रुतविलम्बित सेना-जितारेः शुभ पुत्ररत्नं देवार्चितं विश्वविनायकं च । अश्वाङ्कितं मुक्ति प्रदायकं वै वन्दे सदा शम्भव संभवेशम् ।।
यमकबद्ध मालिनीवृत्तम् प्रभुदितवरसेनः प्रास्तपुष्पेषु-नः पृथुतरतरसे-नः शम्भव श्रेयसे नः । चरणनतरसेनः पुण्यलक्ष्मीरसेनः कपटशकटसेनः सौम्यहत्सारसेनः ॥
For Private And Personal Use Only