________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकपदी स्तुतयः श्री धर्मघोषसूरि
मालिनीवृत्तम् जयमदगजवारिः शम्भवान्तर्भवाऽरिव्रजभिदिह तवारि श्रीनकेनाप्यवारि । यदधिकृतभवाऽरि-स्रसन? श्रीभवाजरः प्रशमशिखरिवारि प्रोन्नमदानवारिः ।। सनातनाय सेनाङ्ग भव ? शं भव शम्भव ?
भगवन् ? भविकानामभव ? शम्भवशम्भवम् । श्री सोमप्रभसूरि
उपजातिवृत्तम् नीतः सुखेनैव जिन ? स्मरोऽयं प्रभाविनाशं भवता. रणेन । भवोदधेर्भव्यजनश्च पारं प्रभाविना शम्भव ? तारणेन ॥ श्री जिनसुन्दरसूरि
यमकबद्ध शालवृत्तम् श्रेयाम्भोजनभोमणे ? दधदिहस्त्रान्ते सतां यो लसत् कल्याणो रुरुचे सदानततम ? श्री शम्भवाऽसम्पदम् । दूरीकृत्य सकृत्यविज्ञ ? तनुतां नेतः स्वभक्ति भवान् कल्याणोरुरुचे ? सदा नततमश्रीशंभवाऽसं पदम् ।।
पू चारित्रराजगणि
यमकबद्ध अनुष्टुप छंद भवतो भवतः पायात्सदाऽऽशं भवनाय कः । न यं शिवश्रियः स्तौति, सदा शम्भभवनायकः ।।
अनुष्टुप
शम्भवं शान्तिदं सत्य-गामिनमुक्तिस्वामिनम् । शिवप्राप्त्यै सदा स्तौमि, जितारिभूपनन्दनम् ॥ पू. पन्यास श्री चरित्ररत्नगणि यद्यमीप्सथ निस्सीम-शम्भवं परमाऽऽगमम् । तदी भजत भो भव्याः ? शम्भवं परमागमम् ।।
यमकबद्ध अनुष्टुप
For Private And Personal Use Only