________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दतविलम्बितः
" द्रुतविम्बितमाह नभौ भरौ” ईति लक्षणम् ।
यत्र पादे न भ भ र गणा भवन्ति तद् इतविलम्बितमित्युच्यत इत्यर्थः । पादे चात्र द्वादशाक्षराणि भवन्ति ।
शिखरिणी
"रसै रुद्रैरिछन्ना यमनसभला गः शिखरिणी" इति लक्षणम् । यत्रपादेय म न स भगणास्ततो लघुर्गुरु चेदेवं षडेकादशसु विरामव सा शिखरिणीत्यर्थः
लोकेऽस्मिन् सप्तदशाक्षरपरिमित. पादो ज्ञेयः ।
मन्दाक्रान्ता
" मन्दाक्रान्ता जलधिषडगैम्भ्रौ नतौ ताद्गुरू चेत्” इति लक्षणम् । यत्र पादे म भ न त त गणास्ततो दौ गुरूचेदेवं चतुर्थषष्टसप्तमेषु विरामश्च सा मन्दाक्रान्ते त्यर्थः ।
लोकेऽस्मिन् सप्तदशाशाक्षरपरिमितः पादो बोध्यः ।
तोटकम्
" इह तोटकमम्बुधिरैः प्रमितम् " इति लक्षणम् । यत्र पादे चत्वारः सगणास्सन्ति तत् तोटकमित्यर्थः लोकेऽस्मिन् द्वादशाक्षरपरिमितः पादो बोध्यः ।
1
स्रग्धरा
"स्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेऽयम्” इति लक्षणम् । यत्र पादे म-र-म-न-य-य-य गणास्सन्ति सा म्रग्धरेत्यर्थः । अस्य वृत्तस्य सप्तमे सप्तमे सप्तमे यतिः ।
लेकेऽस्मिन् एकविंशत्यक्षरप्रमितः पादो बोध्यः ।
For Private And Personal Use Only