________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
(331)
अपक्षेण त्वं युक्तः अस्ति नास्ति गुणान्वितः ॥ आनन्त्यमस्तितायाश्च नास्तितायास्त्वयि ध्रुवम् ॥९०॥ स्वद्रव्येण स्वकालेन स्वक्षेत्रेण स्वभावतः ॥ अस्तित्वमात्मनोज्ञेयं भव्यैश्शास्त्रविशारदैः ॥ ९१ ॥ नास्तिता परवस्तूनां द्रव्यादितस्तथात्मनि ॥ ज्ञेया सापेक्षया बुद्ध्या अस्ति नास्ति त्वसङ्गतिः ॥९२॥ अस्ति नास्तित्वमाश्रित्य सप्तभङ्गी तथात्मनि || सप्तभङ्गी तथा ज्ञेया नित्यत्वादेश्व चेतने ॥ ९३ ॥ विश्वानन्दो महावीरः निर्मलशक्तिधारकः ॥ त्वं त्वां स्वयं विजानीहि मुक्तिराजश्च निष्क्रियः ॥ ९४॥ शत्रुञ्जयस्स्वभावेन भव्यवृन्द विबोधकः ॥ स्वसंवेद्यः सदा श्रीमान् केवलज्ञानभास्करः ॥ ९५ ॥ शीतलो धर्मनाथश्च निर्मायः सत्स्वरूपकः ॥ स्वस्वरूपोपयोगी यः रत्नत्रयीनिकेतनः ॥ ९६ ॥
एतादृशस्वरूपस्य भोक्तृत्वं तत्र रोचते ॥
अतो मोहं परित्यज्य कुरुष्वात्मनि भावनाम् ॥ ९७ ॥ निश्चलध्यानतोऽवाप्तिः आत्मतत्त्वस्य कर्मच्छित ॥ निन्दां निन्द्रां परित्यज्य सत्यं तवं भजस्व भो ॥ ९८८
For Private And Personal Use Only