________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
(330)
आत्मानं तु त्रिधा विद्धि बाह्योपाध्यादिभेदतः ॥ आत्मबुद्धिः शरीरादौ बहिधीमान्नरः स्मृतः ।। ८१ ।। बहिर्धिया भवभ्रान्ती रागादिक्केशसंततिः ।। त्यक्त्वा देहात्मबुद्धिं त्वं देहाद्भिन्नं विभावय ।। ८२ ॥ देहस्थोऽपि न देही यः वाचाभिन्नस्तथामृतः || दुग्धे नीरं तथा देहे आत्माऽसंख्यप्रदेशकः || ८३ || पिस्थोऽपि न रूपी यः सोऽरूप्यात्मा निरञ्जनः || निर्लेपोsनश्वरः साक्षात् कैवल्येन प्रकाशते ॥ ८४ ॥ सच्चिदानन्दरूपेण स्थितिर्यस्य स्वभावजा || परिज्ञाय यमात्मानं सन्तस्सद्गतिभाजकाः ॥ ८५ ॥ आत्मनो गुणनाशेन स्वयमात्मात्महिंसकः || भावयामयः सोऽस्ति स्वात्मधर्मप्ररक्षणात ।। ८६ । विश्वेश भुवने भास्वान वीतरागः कृतार्थकः ॥ तत्त्वं कुत्रापि नो लभ्यं वृथा किं वं प्रधावसि ॥८७॥ त्वयैव प्राप्यते शीघ्रं सम्यकत्वं निश्वलं शुभम् ॥ अभीष्टान्धिसुखाब्धिस्त्वं मोक्षः त्वत्तः प्रजायते ॥ ४८॥ भवान्धेः पारमेत्येव भन्यो भव्यत्वभावतः ॥ अहं भव्योऽथवाऽभव्यः भव्यस्यैतादृशी मतिः ।। ८९ ॥
For Private And Personal Use Only