SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरित्रगतोपयुक्तपद्यानि । (१५) अत्र कृत्यमकृत्यं वा, नैवाहं गणयाम्यतः । कूपे क्षिप निषादानां, मामर्पय यथारुचि ॥ ५५ ॥ ॥५६ ॥ श्रुत्वेति सर्वदेवश्च, तं बाढं परिषस्वजे । मामृणात् मोचयित्वा त्वं, समुद्धर महामते ! ( १७ ) ततः प्रागुक्तकार्य तत्, श्रावितोऽसौ सुतोत्तमः । अतिहर्षात् ततः प्राह, कार्यमेतत्प्रियं प्रियम् (१८) श्रीजैना मुनयः सत्य-निधयस्तपसोज्वलाः । तत्संनिधाववस्थानं, सद्भाग्यैरेव लभ्यते ॥५७ ॥ ॥ ६८ ॥ सूरयस्तमनुज्ञाप्याऽ-दीक्षयंस्तं सुतं मुदा । तदिनान्तः शुभे लग्ने, शुभग्रहनिरीक्षिते (२०) ते विजह्वः प्रभाते चा-ऽपभ्राजनविशङ्किताः । अणहिल्लपुरं प्रापुर्विहरन्तो भुवं शनैः ( २१ ) एवं द्वादश वर्षाणि, श्रीभोजस्याऽऽज्ञया तदा । न मालवे विजहे तत्, श्रीसिताम्बरदर्शनम् ॥ ६९॥ ॥७३ ॥ चलन्तस्ते हि चक्षुष्या अचक्षुष्याः स्थिताः पुनः । तद्वर्णास्तद्रसा जीवास्तदा तेनेक्षिताः स्फुटाः ॥ ८९ ॥ अथ श्रीशोभनो विज्ञोऽभ्यातस्थौ गुरुबान्धवम् । आलिलिङ्गे च तेनासौ, सोदरस्नेह मोहतः ॥९७ ॥ For Private And Personal Use Only
SR No.008638
Book TitlePrastavana Trayi
Original Sutra AuthorN/A
AuthorShobhanmuni, Ajitsagarsuri
PublisherBuddhisagarsuri Jain Gyanmandir
Publication Year
Total Pages102
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy