________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पीठिका.
दिशतु विरतिलाभानन्तरं पार्श्वसर्पन्नमिविनमिकृपाणोत्सङ्गदृश्याङ्गलक्ष्मीः । त्रिजगदपगतापत्कर्त्तुमात्ताऽन्यरूपद्वय इव भगवान् वः सम्पदं नाभिसूनुः
ध्वानेनामृतवर्षिणा श्रवणयोरायोजनं भ्राम्यता, भिन्दाना युगपद्विभिन्नविषयं मोहं हृदि प्राणिनाम् । धर्मकथाविधौ जिनपतेराद्यस्य वाणी नृणां, वृन्दैरुद्यदपूर्व विस्मयरसैराकर्णिता पातु वः
Acharya Shri Kailassagarsuri Gyanmandir
अव्याज्जगन्ति पुरुषोत्तमनाभिसूते
देवस्य वक्त्रकमलोदरमावसन्त्याः । धौतेवदन्तकिरणप्रकरेण मूर्ति
देव्या गिरामधिपतेः शरदिन्दुगौरी
रक्षन्तु स्खलितोपसर्गगलितप्रौढप्रतिज्ञाविधौ, याति स्वाश्रयमर्जितांहसि सुरे निःश्वस्य सञ्चारिताः ।
,
१ भगो ज्ञानादिसम्पत्तिरस्त्यस्येति भगवान् तथा च
भगोऽर्कज्ञानमाहात्म्य - यशोवैराग्यमुक्तिषु । रूपवीर्यप्रयत्नेच्छा - श्रीधर्मैश्वर्ययोनिषु
तत्र योन्यर्कभिन्नार्थोऽत्र भगशब्दो ग्रात्यः ।
For Private And Personal Use Only
वाग्देवता कल्पितपद्मविष्टरा, निवर्त्तिताऽज्ञानतमोविताना । कराम्बुजस्थस्फटिकाक्षमाला, विचिन्तनीयाऽस्ति सुचिन्तितप्रदा ॥ ६॥ गुरुं गुणज्ञं सुधियां सुसंमतं, तत्त्वार्थरत्नाकरमात्मनिष्टम् । बुद्धिप्रभाभास्वदशेषतत्त्वं नमामि सूरीश्वर बुद्धिसागरम्
॥ ७ ॥
निर्मिता ग्रन्थततिर्विभास्वरा, दीपायमाना वरिवर्त्ति लोके । महाकवीशाः स्मृतिगोचरास्ते भवन्तु लोकोपकृतौ परायणाः ॥ ८ ॥ कवीशधनपालेन कृता तिलकमञ्जरी ।
प्रकाशिकाख्यां तट्टीकां कुर्वे सद्बोधहेतवे ॥ ९॥
॥ ३ ॥
५१
118 11
॥१॥
॥ ५॥