________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२
त्रातारं जीवराशीनां, तत्त्वानां देशकं तथा । . भवामयनिहन्तारं, को न. पूजयति क्षितौ ॥ १६८ ॥ पूज्याऽपूज्यविवेकस्तु, यत्र सद्बुद्धिशालिनः ।
निरस्तभूरुहे देशे, पल्लवानां कुतः स्थितिः ॥१६९ ॥ पूज्यपूजकभावेन, जगदेतत्प्रकल्पितम् ।
कुतो ऽन्यथाऽभियानो हि, सर्वत्र गतिमान भवेत् ॥१७॥ मानाऽमानौ समौ बुद्धा, निजभावरताः सदा ।
नोद्विग्नमनसः कापि, सन्तः स्वर्गितरूपमाः ॥ १७१ ॥ निर्माना मानमर्हन्ति, मराला इव मानसे ।
मानिनो वायसप्रख्या-लघुताभाजनंस्मृताः ॥ १७२ ।। लघुताहेतुकं स्थानं, तुङ्गमुन्नतिसाधकम् ।
भूधराग्रगतं वारि, नीचस्थमपि शुद्धिदम् ।। १७३ ।। गुणग्रामरता लोका--वन्यन्ते विबुधैरपि ।
सुगन्धलोभतो मूर्ध्नि, ध्रियन्ते ऽम्बुजहारकाः ॥ १७४ ।। गुणा एव हि पूज्यन्ते, सर्वत्र सुखदायकाः ।
निर्गुणेषु न रज्यन्ते, कोदण्डष्विव धन्विनः ।। १७५ ॥ किंक न साधयत्येष-गुणग्रामो महोत्कटः ।
व्यालायन्ते विकारा हि, क्रोधसन्तानसंभवाः ॥ १७६ ॥
For Private And Personal Use Only