________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विद्युल्लतायते तीत्रः, संपदा विपदां गणः । ___ अचिरस्थायिनो भावाः, कुतस्तास्ताश्च सुस्थिराः॥१५९॥ संपत्तिं च विपत्तिं च, तुल्यरूपतया विदुः ।
उदयाऽस्तगतोभानु-स्ताम्रवर्णों विलोक्यते ॥१६० ॥ संपत्तिमर्जयित्वा यो-धर्मकर्मरतो भवेत् ।। __ स सतामग्रणीभूवा, परत्र सुखमाप्नुयात् ॥ १६१ ॥ मेधावी परमानन्दं, संप्राप्य नैव मुह्यति ।
चिन्तामणि परित्यज्य, को हि पाषाणमर्थयेत् ॥ १६२ ॥ परिणामसुखस्पर्शी, कचिदेव विचक्षणः ।
आपातरम्यताऽन्वेषी, सर्व एव जगज्जनः ॥ १६३ ।। कालेन महता लोकाः, पीड्यन्ते पापकर्मणा ।
साधनान्यपि संप्राप्य, यतन्ते नैव शर्मणे ॥ १६४ ॥ कर्मतन्तौ निवद्धास्ते, तिर्यञ्च इव मानवाः ।
पर्यटन्ति परायत्ता-बुद्धिहीना यथावलम् ॥ १६५ ॥ अभीप्सितार्थसिद्धयर्थ, को न यत्नं करोत्यहो।
पिपीलिकाः प्रबाहेण, कुर्वन्ति धान्यसंचयम् ॥ १६६ ॥ रम्यतामनुचेष्टन्ते, रमणीयजना अपि । .. धनत्रयोदशीतिथ्यां, रज्यन्ते पशवो न किम् ॥ १६७ ॥
For Private And Personal Use Only