________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नयनविषयगम्या-मोदमातन्वतेऽन्ये,
विविधवचनयुक्त्या, केचिदानन्ददाः स्युः। सहृदयहृदयानि-क्षोभहीनानियस्मा,___त्स भवति खलु लोके, दुर्लभः शान्तमूर्तिः ॥ १४५ ॥ गुणिजनगणमान्यो-याति सर्वत्र मान्यं,
विपदतिलघुभावं, मानवं चैति सद्यः । हरशिरसि हिमांशु-जतेऽक्षीणकान्तिः,
कुसुमशरविनाशे, सैव हेतुःप्रदिष्टः ।। १४६ ।। स्वपरजनविरोध, योविदध्यान्मदान्धो
विशदविपुलकीर्ति, नाशयत्यञ्जसा सः । सुकृतभवनपङ्कतो, दापयत्येव मुद्रा
ममृतघटमकाले, स्फोटयत्याशुमूढः ॥ १४७ ॥ प्रभवति गुणराशि-निर्गुणासु प्रजासु,
जनयति विधुरत्वं, सर्वथा दुर्गुणानाम् । शमयति कलिवेगं, लोभिनां मानवानां, ग्लपयति करणानां, स्वच्छिकं संभ्रमत्वम् ॥१४८ ।।
( अनुष्टुप्रवृत्तम् ) धर्म एव सदा साध्यो-हितदो विज्ञभाषितः ।
साफल्यं जन्मनो नैव, विना तेन सुमेधसः ॥ १४९ ॥
For Private And Personal Use Only