________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कृपानावं समासाद्य, तरन्ति विबुधाजनाः ।
भवोदधेनलं चेतो-भवग्राहविलोडितम् ।। १३७ ॥ कृपासारतरं शंबं, शये कृत्वाऽतिभासुरम् ।
मोहमानाद्रिमर्थज्ञ ! विपक्षं कुरु सत्वरम् ॥ १३८ । अखण्डनिधिमाराध्य, सत्कृपारत्नसंभृतम् ।
हिंसादारिद्यमक्षेम, निर्वासयत सज्जनाः ॥ १३९ ॥ परमाणा हृता येन, स्वकीयपलपुटये । __ त एव जन्तवस्तस्य, घातकाअन्यजन्मनि ॥ १४० ॥ धर्माराधनमिच्छन्ति, धर्मकर्म परायणाः।
दयामूलं वदन्त्येनं, तत्त्वज्ञानविचक्षणाः ॥ १४१ ॥ धर्माय धर्मलोपाय, यतन्ते गुणिनोऽगुणाः। . हिमांशुजनितं शैत्य, धूमकेतुर्व्यथाकरः ॥ १४२ ।।
(उपजातिवृत्तम् ) दावानलः कोऽपि नवीनएव, प्रकोपरूपोऽत्र विनिर्मितोऽस्ति । तपोधनं यो हदि सन्निविष्ट, भस्मीकरोति क्षणमात्रसंगात्।।१४३।।
(मालिनीवृत्तम् ) अतिथिवदनचन्द्र, निर्निमेषं विलोक्य,
क्षणमतिसुखदं तं, मन्यते यः कृपालुः । तममरगणसेव्यं, जानतां सिद्धरूपं,
दलितभयवितानं, क्षीण पंसारदृत्तिम् ॥ १४४ ॥
For Private And Personal Use Only