________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नीचोनीचगति नैव, त्यजेत्कर्माऽनुसारतः ।
वायसस्तीर्थमासाद्य, लभते स्वोचिवां क्रियाम् ॥५०॥ क्षुद्रः कोऽपि क्रियांसारां, प्राप्प नैव प्रमोदते ।
विषमो विषमस्थाने, जायते कार्यसाधकः ॥५१॥ उत्पद्यन्ते विलीयन्ते, जमत्यस्मिन्ननेकशः ।
पुण्येनप्रभुतामेत्य, परोपकृतिमान् भवेत् ।।५२।। विभनिजठरं लोके, कोनदुष्पूरमाशया ।
स एव परमः प्रोक्तः, परार्थपरिपूरकः ॥५३॥ पराशा पूरितायेन, तेन पूर्णमिदं जगत् ।
क्षणस्थायिन्यहोलोके, कीदृशीजनमूढता ॥५४॥ कृपणाधनमासाद्य, कृतकष्टपरम्पराः ।
परार्थद्वेषिणः खिन्नाः, स्वयं नैवोपभुञ्जते ॥ ५५ ॥ धनिनां धनलाभेन, यदिनस्यात्परार्थता ।
किं ते न भारभूतेन, विमुखेन निजोचित्रात् ॥५६॥ लुब्धानराः समासाद्य, विपुलं धनमापदम् ।
लभन्ते रक्षणासक्का-दुरन्तां पुण्यवर्जिताः ॥ ५७ ।। मायशो विफल कार्य, निराबाधमनाश्रयम् । सिद्धयत्येकक्रियासक्तं, समवायो हि दुष्करः ॥५८॥
For Private And Personal Use Only