________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परगेहगता लोके, पूज्यन्ते गुणिनो जनाः ।
निजधानि विराजन्ते, विगुणाअपि देहिनः ॥४१॥ गुणानं सदा शस्य, विदुषां वाचि संस्थितम् ।
यतितव्यं तदर्थ हि, निर्गुणं नाटकं जगत् ॥ ४२ ॥ गुणारविन्दमालां ये, धारयन्ति नरोत्तमाः।
वन्दनीया नरेशानां, भवन्ति गुणधारिणाम् ॥४३॥ रज्यन्ते मुखिनो लोका, गुणिनां दर्शनेन ।
प्रजारञ्जनतोमान्या, भवन्ति गुणिनः सदा ॥४४॥ क्रोधादिस्तेनतोरक्ष्या-गुणसंपत्तयोनृभिः ।
क्षमाखड्गोनयद्धस्ते, सनालं रक्षितुं गुणान् ॥४५॥ व्यसनानि प्रभूतानि, प्रथितानि धरातले ।
शुभानि सेवनीयानि, मतिमद्भिर्विमुक्तये ।। ४६ ।। दुःखोदर्काणि दुष्टानि, व्यसनानि विमोहिनाम् ।
वीक्षितव्यानिनोतानि, भुजगाभोगवत्सदा ॥४७॥। दुर्गुणाः परिहर्तव्याः, श्रेयः सन्ततिघातकाः ।
श्रेयोमूलमिदंजन्म, तदतीतं निरर्थकम् ॥ ४८ ॥ गुणवान् श्लाध्यते लोके, श्लाघितो गुरुतां भजेत् ।
गुरुत्वात्परमं धाम, प्राप्नुयात्रैव संशयः ।। ४९ ॥
For Private And Personal Use Only