________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दुर्वाराः कमठादिभिर्विरचिता-नैकोपसर्गाः क्षयं, __ भेजुर्थस्य तमोऽपहारितपसा, ताम्यजनातायिना। दीव्यौर्वादिकतापतापितजना-नन्दप्रदानोचितं,
श्रीपञ्चासरपार्श्वनाथचरणा-ऽम्भोजद्वयं नौम्यहम् ।।८॥ श्रीमत्पट्टणपत्तनेऽधिवसति, सौभाग्यसारास्पदं, ___ यः पार्थाधिपतिः करोति जनता-भावोन्नतिप्रापकः । तस्येदं भवभीतिहारिमनुजो-यः कीर्तयेदष्टकं, नितिं समुपैति सोऽतिरभसा, निर्मानमारार्तिकः ॥९॥
श्रीमद्रविसागरगुरुस्तुतिः॥
(शिखरिणीवृत्तम् ) - मुनीन्दुश्चारित्र-प्रथितपरमानन्दविभवः,
क्षयातीताक्षुद्र-द्रविणकलिते पत्तनवरे। महेशानाऽभिख्ये, प्रवर सुखसंपत्तिमगमत् रविक्षीरोदन्वा-निहतदुरिताऽरातिनिचयः ॥१॥
(शार्दूलविक्रीडितवृत्तम् ) क्षेत्रेनेकविधे विबोधहलभृत् , सद्रोधि बीजंवप
निर्दोषव्रतवारिसेचनविधि, नित्यं प्रकुर्वन् मुदा । मिथ्यात्वोपहतात्मखेचरगणं, निर्वासयन्वासव
स्तिग्मांशुपवरोदधिर्विजयतां, चारित्रिणां त्रायिनाम् ॥२॥
For Private And Personal Use Only