________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७८
संसारोद्धतिरन्तिमागुणजुषां, यद्ध्यानतोजायते,
दुष्टान्यष्टलयं व्रजन्ति सुधियां, रौद्राणि कर्माणि च । संपत्तिः मुलभा नरामरगण-श्लाघ्या स्वनध्या नृणां, __ श्रीपञ्चासरपार्श्वनाथचरणा-ऽम्भोजद्वयं नौम्यहम् ॥३॥ पापं वारयति क्षमां जनयति, क्षेमं करोत्यञ्जसा,
दारियं दलयत्यलं वितनुते, कीर्ति परां शाश्वतीम् । सन्तोषं वितरत्यथाऽपि यदनु-ध्यानं विधत्तेऽक्षयं,
श्रीपञ्चासरपार्श्वनाथचरणा-ऽम्भोजद्वयं नौम्यहम् ॥४॥ यन्नेत्रप्रवलप्रभाशमयति, क्षोभं कुवादोद्भवं,
नैरुज्यं नितरां तनोति सुमदं, संपादयत्यात्मनि । दुर्वारा दलयत्यनङ्गसुभट-प्रोदामभीतिं सदा,
श्रीपञ्चासरपार्श्वनाथचरणा-म्भोजद्वयं नौम्यहम् ॥५॥ यत्पुण्योपचितं नरामरगणाधीशै-मुंदा वन्दितं,
मिथ्यामोहतमोनुवासितधियां, तथ्यस्वरूपोष्णगुः । सीरं सारतरं दुरन्तविषमा-पत्तिक्षमादारणे,
श्रीपञ्चासरपार्श्वनाथचरणा-ऽम्भोजद्वयं नौम्यहम् ॥६॥ भीतिर्भूतगताऽन्यचक्रजनिता, लुप्ताऽऽस्पदा लक्ष्यते,
क्षत्रातङ्कगणान्तकारिविभुना, स्नात्राम्बुना चारुणा। यस्याऽऽमन्दसुभक्तिभासुरसुर-क्षोणीन्द्रसंपूजितं,
श्रीपश्चासरपार्श्वनाथचरणा-ऽम्भोजयं नौम्यहम् ॥७॥
For Private And Personal Use Only