________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्वलत्कान्तिव्राता, अनचमगुणा औषधिगणा-. विकासन्तेऽजस्रं शमिततपनातापितजनाः । तमस्विन्यां यस्मिन्मणिमयसुदीपा इव सदा, इलादुर्गे दुर्गे, जयति जिनतीर्थं जयकरम् ॥ ५ ॥ सरःश्रेणीशश्व द्विमलजलपूर्णा प्रतिपदम्
सुधासारश्रुत्वा शशधरसकाशात्स्थित इव | गरुत्मन्तो यस्मिन्मधुररटनानन्दजनकाइलादुर्गे दुर्गे, जयति जिनतीर्थ जयकरम् || ६ || यदीयां सट्टद्धिं, निजपदुतया को न विबुधः
शिरो धुन्वन्ब्रूते, जितविबुधराजोपवनिकाम् । मृगेन्द्रा अप्यस्मिन्, बहुसुखतया सन्ति बहुलाइलादुर्गे दुर्गे, जयति जिनतीर्थ जयकरम् ॥ ७ ॥ मृगाः सौम्याकारा - स्तृणजलमतानन्दविभवा
भ्रमत्यक्षुब्धास्ते, प्रभुपदसमीक्षापटुधियः । यथाकालं सर्वो-निज हितकरः को न भवति, इलादुर्गे दुर्गे, जयति जिनतीर्थं जयकरम् ॥ ८ ॥
For Private And Personal Use Only