________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६७
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धरम्या वरयतिजनं त्वत्पदाम्भोजरक्तं, सौभाग्यत्वं सरतिनिकटं सर्वदक्षप्रभावम् । विभ्यद्दरे व्रजतिविषमं दुर्भगत्वं हि तस्मान्नन्नम्ये सु-व्रतमुनिपतेऽगाशिपूर्मासिविम्बम् ॥ ५ ॥
कल्याणार्थी तत्रमुखगतो जातसंकल्पकल्पः, सिद्धेकार्ये त्रिमुखपदुता दृश्यते नैव केषाम् । चित्रन्त्वेत-द्भुवनविदित ? त्वत्मतापस्य लोके, नन्नम्ये सु-व्रतमुनिपतेऽगाशिपूर्भासिबिम्बम् ।। ६ ।। जाग्रज - स्ततिरतिकरं भ्रान्तिशान्तिप्रदायि जन्तुद्वेग श्रमभयहरं पूरिताशाप्रपञ्चम् । भानूद्योतं विरचयदलं वृद्धिभावं वरेण्यं,
नन्नम्ये सु- व्रतमुनिपतेऽगाशिपूर्भासिविम्बम् ॥ ७ ॥ संसारान्त-प्रथनविभवं धारयत्कान्तिकान्तं,
भक्त्याऽधीनं परमकरुणं स्वच्छताशालिशीलम् । शश्वच्छान्ति प्रथितविमलाकारमाराधनीयं, ननम्ये सु-व्रतमुनिपतेऽगाशिपूर्भासिबिम्बम् ॥ ८ ॥
For Private And Personal Use Only