________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥श्रीमदगाशितीर्थस्तोत्रम् ॥
(मन्दाक्रान्तावृत्तम् ) बोभूयन्ते विभवबहुलास्त्वत्प्रभावप्रयुक्ता
जङ्गम्यन्ते जननमरणानिर्भयत्वं गुणज्ञाः । सासद्यन्ते निरुपमवरां मङ्गलानां प्रशस्ति
ननम्येसु-व्रतमुनिएतेऽगाशिपूर्भासिबिम्बम् ॥१॥ मान्यो यावा-नमितमहिमा तावकीनस्त्रिलोक्यां, - तारकेषा-मभयजनको नैवदृष्टः श्रुतोवा। मन्दायन्ते सुगतिभवने निर्धनानां (निर्दयानां) मनांसि,
नाम्येसु-व्रतमुनिपतेऽगाशिपू सिबिम्बम् ॥ २॥ सौम्याकारा सकृदभिगता मूर्तिरय्या त्वदीया,
तेषांवित्तं कलयति सदा निर्मलं साम्यभावम् । संसाराब्धि-शुलुकवदहो जायते क्षेमकारी,
नन्नम्येसु-त्रतमुनिपतेऽगाशिपूर्भासिबिम्बम् ॥ ३ ॥ स्वर्गस्थानाः पदमुपगता देवता उच्चसारं,
तद्धेतुस्त्व-द्भजनमहिमा वर्णितुं नैव शक्यः । सर्वज्ञोक्त-प्रवचनवचःसारिणां किं दुरापं, नन्नम्येसु-व्रतमुनिपतेऽगाशिपूर्भासिविम्बम् ॥ ४ ॥
For Private And Personal Use Only