________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीशेरीशातीर्थस्तोत्रम् ॥
(शार्दूलविक्रीडितवृत्तम् ) यः संसारसुखं तृणाङ्करसमं संभावयश्चेतसि,
चिन्तारत्नसमं चरित्रमनघं त्रैलोक्यरक्षाक्षमम् । स्वीकृत्याऽक्षयबोधिदानमदिशत्सर्वज्ञसर्वोपमः,
शेरीशाभिधपत्तनाधिवसनं पाचप्रभुं नौमि तम् ॥१॥ पूजा यस्य विभोः कृता शुभततिं विस्तारयत्यञ्जसा, ___ सल्लक्ष्मी विभवोचितां वितरति ध्वस्तार्थितृष्णाभ्रमाम् । आधिव्याधिपरंपरां विघटयत्यत्यन्तदुःखोदधि,
शेरीशाभिधपत्तनाधिवसनं पार्श्वभुं नौमि तम् ॥२॥ यदृष्टिक्षण आतनोति विविधां माङ्गल्यहारावली, __ सद्बोधं दिशति प्रियं प्रथयति त्रैलोक्यरक्षावहम् । मानं मईयति क्षणाजनयते सौजन्यजन्यं यशः,
शेरीशाभिधपत्तनाधिवसनं पार्श्वप्रभुं नौमि तम् ॥ ३ ॥ यद्धयानं विधुनोति पूर्वनिचिताऽरिष्टाऽष्टकर्माऽऽवली,
कैवल्यं कलयन्त्यमन्दमुनयो यद्धयानतेजःश्रिताः । तेनैवोच्चगतिं श्रयन्ति विबुधा नित्योत्सुका योगिनः,
शेरीशाभिधपत्तनाधिवसनं पार्श्वप्रभुं नौमि तम् ॥४॥
For Private And Personal Use Only