________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
દ
कल्पद्रुमस्तु भवसौख्यविधानदक्षस्त्वच्चिन्तनं पुनरलौकिकशर्मदायि । तस्माच्वदीयतुलनां न भजन्ति केऽपि, ध्यायामि मातरपुरस्थितसत्यदेवम् ॥ ५ ॥
सत्यस्त्वया निगदितोऽतिविशुद्धधर्मः,
सत्यं वदीयमखिलं भुवि सच्चरित्रम् । सत्यस्वरूप भगवंस्तव सत्यवर्त्म,
ध्यायामि मातरपुरस्थित सत्यदेवम् । ६ ।। सन्तः समाधितधियः सततं स्मरन्ति, त्वन्मूर्त्तिमुन्नतिकरीं भवशान्तिहेतोः । तस्मादनन्यशरणं त्वमसि प्रजाना,
ध्यायामि मातरपुरस्थित सत्यदेवम् ॥ ७ ॥
मायाविनो हि बहवो भुवि देवलोका
आश्रित्य तामरवरातधर्मकृत्याः । सत्यार्थिनस्तव मतं प्रसमीक्ष्य जाता, ध्यायामि मातरपुरस्थित सत्यदेवम् ॥ ८ ॥
For Private And Personal Use Only