________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सर्वैः साम्यतया द्विजादिमनुजैर्यस्य प्रभोः सेवितं, भक्त्युल्लासिमनोभिरङ्घ्रिवनजं सद्रेखया शोभितम् । सत्यासत्यविवेकमित्थमनघा जानन्ति लोकोत्तमावारूपेश्वरपार्श्वनाथमनिशं भक्त्या स्तुवे श्यामलम् ||५|| संप्रेक्ष्य प्रथमां स्वभावमधुरां मूर्ति जगत्पावनी, यस्य क्षेमविधायिनीं नरगणास्तापत्रयोन्मूलनीम् । संसारार्णवतारिणीं निजजनुः साफल्य मातन्वते,
चारूपेश्वरपार्श्वनाथमनिशं भक्त्या स्तुवे श्यामलम् ||६|| यत्सेवा शिवसन्ततिं रचयति क्षेमं तनोति क्षितौ,
कीर्त्ति दिक्षु महोज्वल तनुजुषां विस्तारयत्यञ्जसा । चेतः प्रापयति प्रसादमतुलं तृष्णां छिनतिक्षणा,
चारूपेश्वरपार्श्वनाथमनिशं भक्त्या स्तुवे श्यामलम् ॥७॥
सिद्धं यं शरणं प्रपद्य बहवो भव्या भवं भावुका, निर्मथ्य कमवर्जिता निजगुणैर्जग्मुः श्रियं शाश्वतीम् । सर्वापण शिवह्निमतुलं तं तस्थिवांसं हृदि, चारूपेश्वरपार्श्वनाथमनिशं भक्त्या स्तुवे श्यामलम् ॥८॥
For Private And Personal Use Only