________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीचारूपतीर्थस्तोत्रम् ॥
(शार्दूलविक्रीडितवृत्तम् ) मेघश्याममनोहराकृतिजुषं चक्षुष्मतां शान्तिदं,
दातारं विभवान्विचित्रसुखदाँस्त्रातारमागन्तुकान् । हन्तारं भवभूततापमखिलं भक्तिमियोल्लासिनां,
चारूपेश्वरपार्श्वनाथमनिशं भक्त्या स्तुवे श्यामलम् ॥१॥ हाटकराजतरत्नभासुरमहाच्छत्रत्रयभ्राजिनं,
नागेन्द्राच्छफणासहस्रविलसन्मौलिप्रभादीपिनम् । केयूरपतिबद्धबाहुयुगलं चेतोहराङ्गमभं,
चारूपेश्वरपार्श्वनाथमनिशं भक्त्या स्तुवे श्यामलम् ।।२।। कर्मारिप्रतिरोधकं गुणगणान्विस्तारयन्तं क्रमात् ,
संसाराम्बुधितारकं शिवगतिश्रेयःप्रदानक्षमम् । रागद्वेषमहारिवारविजय प्राप्तप्रशस्ति क्षणा
चारूपेश्वरपार्श्वनाथमनिशं भक्त्या स्तुवे श्यामलम् ॥३॥ यत्पादाम्बुजसेवनेन मुनयो दीक्षाफलं लेभिरे,
यद्ध्यानं शिवगामुका जनवरा सत्रिन्दिवं कुर्वते । तं तत्त्वार्थविभासकं जिनपतिं त्रैलोक्यरक्षाकरं,
चारूपेश्वरपार्श्वनाथमनिशं भक्त्या स्तुवे श्यामलम् ॥४॥
For Private And Personal Use Only