________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४७२
શ્રી પરમાત્મ તિઃ
आत्मनस्तु परंज्योति लोकालोकप्रकाशकम् ॥२॥ निरालम्ब निराकार, निर्विकल्प निरामयं आत्मनः परमंज्योति निरुपाधि निरञ्जनम् दीपादिपुद्गलापेक्ष, समलं ज्योति रक्ष निर्मलं केवलं ज्योति, निरपेक्षमतीन्द्रियं ॥४॥ कर्मनोकर्म भावेषु, जागरुकेष्वपि प्रभुः तमसानामृतः साक्षी, स्फरति ज्योतिषास्वयं ॥५॥ परमज्योतिषः स्पर्शा दपरं ज्योतिरेधते यथा सूर्यकरस्पर्शात् , सूर्यकान्त स्थितोऽनलः ॥६॥ पश्यन्न परमज्योति विवेकाद्रेः पतत्यधः परमंज्योति रन्विच्छ नाविवेक निमज्जति ॥७॥ तस्मै विश्वप्रकाशाय, परमज्योतिषे नमः केवलंनैवतमसः प्रकाशादपियत्परम्
॥८ ॥ ज्ञान दर्शन सम्यक्त्व चारित्रमुखवीर्यभूः परमात्मप्रकाशो मे सर्वोत्तम कलामयः यं विना निष्फलाः सर्वाः कलागुण बलाधिकाः आत्मधामकलामेकां, तां वयंसमुपास्महे ॥१०॥ निधिभिनवभीरत्नै चतुर्दशभिरप्यहो न तेजश्चक्रिणां यत्स्या त्तदात्माधीनमेव नः ॥११॥ दंभपर्वतदंभोलि ज्ञानध्यानधनाः सदा मुनयोवासवेभ्योषि, विशिष्टं धाम विभ्रति श्रामण्ये वर्षपर्यायात् , प्राप्ते परम शुक्लतां सर्वार्थसिद्धदेवेभ्यो प्यधिकं ज्योतिरुल्लसेत् विस्तारिपरमज्योति धोतिताभ्यंतराशयाः जीवन्मुक्ता महात्मानो, जायते विगतस्पहाः ॥१४॥
For Private And Personal Use Only