________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
શ્રી પરમાત્મ જ્યોતિ;
१२५
तावदेवेन्द्रियाणि स्युः कषायास्तावदेवहि; अनाहते मनोनादे, यावल्लीनं न योगिनः. सौख्यं वैषयिकं तावत् , सुरम्यं प्रतिभासते; अनाहतलयोत्पन्नं, सुखं यावन्न लभ्यते. जन्मलक्षार्जितंकर्म, ध्यानेनानेन योगिनः, तमःसूर्योदयेनैव, तत्सर्व नश्यति क्षणात्. स्थूलं सूक्ष्मं च साकारं, शुभध्यानमिति स्फुटम् , रूपातीतं समाख्यातं, निराकारमथोच्यते. निराकार मपिव्याने, रूपातीतं समुज्ज्वलं, स्थूलसूक्ष्मविभेदेन, द्विविधं परिकीर्तितं. १२६ शारीरं सकलं त्यक्त्ता, ब्रह्मद्वारे स्थिरमनः, क्रियतेयदि तत्सूक्ष्म, निराकारमिहोच्यते. ध्यानेत्व नाहतेशुद्ध, नित्याभ्यामप्रयोगतः द्वादशान्ते निराकारे, मनोयोगं निवेशयेत्. बाघमाभ्यंतरं योगी, सत्त्वात्मानं द्विवापिच; ब्रह्मद्वारं निराकारं, परमात्मपदं श्रयेत्.
१२९ अकांगुलपरिमाणं, सुवृत्तं व्योमसन्निभं, योगीन्द्रः प्रथमं यावत् , द्वादशान्तं विचिन्तयेत्. १३० नेत्रमण्डलसंस्थायी, द्वादशात्मा निगद्यते, तस्मादप्यूर्ध्वगंब्रह्म, द्वादशान्ते तथा स्मृतं नादबिन्दुकलातीतं, परमात्मकलायुतं; द्वादशान्तं सदाध्यायेत्, सदानंदकमंदिरं. १३२ रुद्धायोगी कषायप्रसरमतिचला, निन्द्रियान्स्वानियम्य; त्यक्वा वासंग मन्यं परमपदसुख प्राप्तयेबद्धबुद्धिः कृत्वाचित्तं स्थिरं स्वं शमरसकलितं सत्वमालंब्य वाहं,
१२८
For Private And Personal Use Only