________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
3७८
१११
શ્રી પરમાત્મ તિઃ तथा कुरु यथा शुक्ल, ध्यानवृक्षसमाश्रितः चिन्वानो ज्ञानपुष्पाणि, लभेन्मोक्षफलं बुधः अस्मिन्नेव भवे सौम्य, व्योमरूपः सनातनः शुक्लध्यानात्सदानन्दो, योगी मुक्तिपदं व्रजेत्. ज्ञानदर्शनचारित्र, रूपरत्नत्रयात्मकः योगो मुक्तिपदप्राप्ता, बुपायः परिकीर्तितः व्यापार छिन्नसंसारः, संयोगो मुक्तियोजकः; विभक्तसंयमाद्यंगैः, सोपिस्यादष्टधा पुनः मालिनीवृत्तमिदम् , मणिहुनवहतारा, सोमसूर्यादयोपि; क्षितिविषयमिहाल्पं, बाह्यमुद्योतयति. सहजलयसमुत्थं, द्योतयेज्ज्योतिरंत; त्रिभुवन मपिसूक्ष्म, स्थूलभेदं सदैच. परानंदास्पदं सूक्ष्म, लक्ष्यं स्वानुभवात्परं; अधस्ताद्वादशान्तस्य, ध्यायेन्नादमनाहतं. तैलधारामिवाछिन्नं, दीर्घघंटानिनादव, लयंप्रणवनादस्य, यस्तं वेत्ति सयोगवित्. घंटानादोयथा प्रान्ते. प्रशाम्यन्मधुरोऽभवत् । अनाहतोपिनादोथ, तथा शान्तो विभाव्यतां. नदत्यव्यक्तरूपेण, सर्वभूतहदिस्थितः। सनादोऽनाहतस्तेन, ननादो व्यक्तिसंभवः. सनादः सर्वदेहस्थो, नासाग्रेषु व्यवस्थितः; प्रत्यक्षः सर्वभूतानां, दृश्यते नैवलक्ष्यते. अक्षरध्वनिनिर्मुक्तं, निस्तरंगं समेस्थितं; यश्चित्तं सहजावस्थं, सनादस्तेन भिद्यते.
For Private And Personal Use Only