________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
શ્રી પરમાત્મ ખ્યાતિ
मनो यत्कायरहितं, श्वासोच्छ्वास विवर्जितं; गमागमपथातीतं, सर्वव्यापारवर्जितं निराश्रयं निराधारं सर्वाधारं महोदयं; पराचीनं पदज्ञेयं, योगिभिस्त निरजनं. पवनोम्रियते यत्र, मनोयत्र विलीयते, विज्ञेयं सहजं स्थानं, तत्सूक्ष्ममजरामरं मनोव्यापारनिर्मुक्तं सदैवाभ्यासयोगतः, उन्मनीभावमायातं, लभते तत्पदं क्रमात्. विमुक्तविषयासंगं, सन्निरुद्धं मनोहृदि; यदायात्युन्मनीभावं तदातत्परमं पदं ध्यातृध्यानोभयाभावे, ध्येयेनैक्यं यदात्रजेत्; सोयं समरसीभाव, स्तदेकीकरणं मतं. शुभध्यानस्य सूक्ष्मस्य, निराकारस्य किञ्चन; अथातः प्रेोच्यते तत्वं दुर्ज्ञेयं महतामपि. रात्रौसुप्तेन मूक्रेन, लब्धः स्वप्नोऽत्रकेनचित; न ब्रूते सेोपि मूकस्तु तेन स्वप्नो न बुध्यते. योको यादृशी रात्रिः, स्वप्नोपिप्राज्ञयाहयाः; फलंच यादृशंतस्य, श्रृणु सौम्य तदादरात्. अविद्यारात्रिसुप्तेन, चित्तमूकेन योगिनः स्वप्नो भावमयो, लब्धस्तस्यैवानंददायकः कृतस्तेन स्थिरोभावः, परब्रह्मणि योगिना/ परब्रह्म ततोभाव, स्तस्य मुक्तिफलं भवेत्. सोमसूर्यद्रयातीतं वायुसंचारवर्जितं; संकल्पवर्जितं चित्त, परंब्रह्म निगद्यते. परब्रह्मव तज्ज्ञेयं, सिद्धार्थ विबुधैः सदा;
"
For Private And Personal Use Only
૩૭૫
६१
६२
६३
६४
६५
६६
६७
६८
६९
७०
७१
७२