________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
૩૭૨
શ્રી પરમાત્મ તિઃ ध्येयः परपदारूढः, परमात्मा निरंजन:. स्वमदृष्टिसमांतत्र, दृष्टिमुन्मील्य योगवित् , पश्येत्परपदारूह. देवेशं मुक्तिहेत. शंकरो वा जिनेशोवा, योयस्याभिमतः सदा; एक एव प्रभुः शान्तो, निर्वाणस्थो विलोक्यते. मुरासुरनराधीश. पूजितो जगतां हितः, सर्वदोषविनिर्मुक्तो, देवेशः परिकीर्तितः पुण्यापुण्यपथातीतो, भववल्लीविनाशन: अव्यक्तो व्यक्तरूपश्च, सर्वज्ञः सर्वदर्शनः निराकारो निराभासो, निःमपंचो निरंजनः; सदानंदमयो देवः, सिद्धो बुद्धो निरामयः अनंतकेवलो नित्यो, व्योमरूपः सनातनः; देवाधिदेवो विश्वात्मा, विश्वव्यापी पुरातनः. कृत्स्नकर्मकलातीतः, सकलो निष्कलोपिच परमात्मा परं ज्योतिः, परब्रह्म परात्परः. गुणत्रयविनिर्मुक्तो, गंधस्पर्शविवर्जितः; अच्छेद्यश्चाप्यभेद्यश्च, निलेपो निर्मलः प्रभुः. सगुणो निर्गुणः शान्तः, संसारार्णवतारका दुर्लक्षो लक्ष्यमापन्नः, सुवर्णो वर्णवर्जितः एकोप्यनेकरूपश्च, स्थूलः सूक्ष्मो लघुर्गुरुः. निर्वाणपदमारूढो, देवेशोयमिहोच्यते; ब्राह्मणै लक्ष्यते ब्रह्मा, विष्णुः पीतांबरै स्तथा; रुद्रस्तपस्विभिदृष्ट, एष एव निरंजनः, जिनेन्द्रो जल्प्यते जैन, बुद्धः कृत्वाच सौगतैः; कौलिकैः कोल आख्यातः, सएवायं सनातनः.
For Private And Personal Use Only