________________
Shri Mahavir Jain Aradhana Kendra
,
શ્રી પરમાત્મ જ્યંતિ:
स्थाने स्थाने भ्रमन्तीह, देवदर्शन हेतवे; शरीरस्थं न पश्यन्ति, देवमज्ञानबुद्धयः. सर्वधातुविनिर्मुक्तो, ज्ञानरूपो निरंजनः; आत्मैव कर्मनिर्मुक्तो, ध्यातव्यो मोक्षकांक्षिभिः. संतोषामृतनिर्मग्नः शत्रुमित्रसमः सदा; सुखदुःखापरिज्ञाता, रागद्वेष पराङ्मुखः प्रभाराशिरिवश्रीमान्, सर्वविश्वोपकारकः; सदानंदसुखापूर्णः स्वात्मा ध्यातव्य ईदृशः. शुद्धस्फटिकसंकाशः, सर्वज्ञगुणभूषितः; परमात्मा कलायुक्तो. ध्येयः स्वात्मा मनीषिभिः. पटुचतुरपीठादि, सर्वसत्त्वा मुमुक्षुभिः, आत्मा ध्यातव्य एवायं व्याने रूपविवर्जिते. एवमभ्यासयोगेन ध्यानेनानेन योगिभिः, शरीरान्तः स्थितः स्वात्मा, यथावस्थोऽवलोक्यते. न ज्ञातः पुरुषो येन, गुणप्रकृतिवर्जितः; तेनैव तीर्थयज्ञादि, सेवनीयं न योगिभिः आत्मज्ञानं परं तीर्थे, न जलं तीर्थमुच्यते; स्वात्मज्ञानेन यच्छौचं, तच्छौंचं परमं स्मृतम्, आत्मज्ञानं परोधर्मः, सर्वेषां धर्मकर्मणां; प्रधानं सर्वविद्यानां प्राप्यते ह्यमृतं ततः तपोभिर्दुस्तपस्तप्तै, तेस्तै स्तेच दुष्करैः आत्मज्ञानं विना मोक्षो, नभवे द्योगिनामपि. सर्वधर्ममयः श्रीमान्, सर्ववर्णविवर्जितः, आत्मायं ज्ञायते येन तस्य जन्म न विद्यते. एवं ध्यात्वा स्वमात्मानं, स्वकाये कायवर्जितं;
9
www.kobatirth.org
,
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
૩૭૧
११
१२
१३
१४
१५
१६
१७
૨૮
१९
२०
२१