________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४०
Acharya Shri Kailassagarsuri Gyanmandir
श्रीश्रमणसङ्घस्यशान्तिर्भवतु, श्रीपौरजनस्य शान्तिर्भवतु, श्रीजनपदानां शान्तिर्भवतु, श्रीराजाधिपानां शान्तिर्भवतु, श्रीराजसन्निवेशानां शान्तिर्भवतु, श्रीगोष्ठिकानां शान्तिर्भवतु, श्रीपौरमुख्याणां शान्तिभवतु, श्रीब्रह्मलोकस्य शान्तिर्भवतु ॐ स्वाहा ॐ स्वाहा, ॐ श्रीपार्श्वनाथाय स्वाहा । एषा शान्तिः प्रतिष्ठायात्रास्नात्राद्यवसानेषु शान्तिकलशं गृहीत्वा कुङ, कुमचन्दनकर्पू राऽगरुधूपवासकुसुमांजलिसमेतः स्नात्रचतुष्किकायां श्रीसंघसमेतः शुचि शुचिवपुः पुष्पवस्त्राचन्दनाऽऽभरणालंकृतः पुष्पमालां कण्ठे कृत्वा शान्तिमुद्घोषयित्वा शान्तिपानीयं मस्तके दातव्यमिति ।
मणिपुष्पवर्षं,
नृत्यन्ति नृत्यं सृजन्ति गायन्ति च मंगलानि । स्तोत्राणि गोत्राणि पठन्ति मन्त्रान्, कल्याणभाजो हि जिनाभिषेके
शिवमस्तु सर्वजगतः, परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं, सर्वत्र सुखीभवतु लोक:
For Private And Personal Use Only
।। १ ।।
।। २ ।।