________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नगरक्षेत्रदेवतादयस्ते सर्वे प्रीयन्तां प्रीयन्तां अक्षीणकोषकोष्ठागारा नरपतयश्च भवंतु स्वाहा ।
ॐ पुत्रमित्रभ्रातृकलत्रसुहृत्स्वजनसम्बन्धिबन्धुवर्गसहिता नित्य चाऽऽमोदप्रमोदकारिणः, अस्मिँश्च भूमण्डलायतननिवासिसाधुसाध्वीश्रावकश्राविकाणां रोगोपसर्गव्याधिदुःखदुभिक्षदौर्मनस्योपशमनाय शान्ति
र्भवतु ।
ॐ तुष्टिपुष्टिऋद्धिवृद्धिमांगल्योत्सवाः, सदा प्रादुर्भूतानि पापानि शाम्यन्तु दुरितानि, शत्रवः पराङ मुखा भवन्तु स्वाहा । श्रीमते शान्तिनाथाय, नमः शान्तिविधायिने । त्रैलोक्यस्यामराधीश मुकुटायचितांघ्रये ॥१॥ शांतिः शांतिकरः श्रीमान्, शांतिं दिशतु में गुरुः । शांतिरेव सदा तेषां, येषां शांतिगुहे गृहे ॥२॥
उन्मृष्टरिष्टदुष्टदग्रहगतिदुःस्वप्नदुनिमित्तादि। सम्पादितहितसम्पन्नामग्रहणं जयति शान्तेः ।।३।। श्रीसङ घजगज्जनपदराजाधिपराजसन्निवेशानाम् । गोष्ठिकपुरमुख्याणां,व्याहरणैाहरेच्छान्तिम् ॥ ४॥
For Private And Personal Use Only