________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अभ्युद्यतोऽस्मि तव नाथ ! जडाशयोऽपि; कर्त स्तवं लसदसंख्यगुणाकरस्य । बालोऽपि किं न निजबाहुयुगं वितत्य, विस्तीर्णतां कथयति स्वधियाऽम्बुराशेः ? ॥५॥ ये योगिनामपि न यान्ति गुणास्तवेश !, वक्तं कथं भवति तेषु ममावकाश: ? । जाता तदेवमसमीक्षितकारितेय, जल्पन्ति वा निजगिरा ननु पक्षिणोऽपि ? ।।६।। आस्तामचिन्त्यमहिमा जिन ! संस्तवस्ते, नामापि पाति भवतो भवतो जगन्ति । तीव्रातपोपहतपान्थजनान् निदाघे, प्रीणाति पद्मसरसः सरसोऽनिलोऽपि ।। ७ ।। हृत्तिनि त्वयि विभो ! शिथिलीभवन्ति, जन्तोः क्षणेन निबिडा अपि कर्मबन्धाः । सद्यो भुजंगममया इव मध्यभागमभ्यागते . वनशिखण्डिनि चन्दनस्य ।।८।। मुच्यन्त एव मनुजाः सहसा जिनेन्द्र !, रौद्ररुपद्रवशतैस्त्वयि . वीक्षितेऽपि । गोस्वामिनि स्फुरिततेजसि द्दष्टमात्रे, चौरैरिवाशु पशवः प्रपलायमानैः ॥९॥
For Private And Personal Use Only