________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(८) अष्टमं कल्याणमन्दिरस्मरणम् ।।
कल्याणमन्दिरमुदारमवद्यभेदि, भीताभयप्रदमनिन्दितमंघ्रिपद्मम् । संसारसागरनिमज्जदंशेषजन्तु पोतायमानमभिनम्य जिनेश्वरस्य
यस्य स्वयं . सुरगुरुर्गरिमाम्बुराशे., स्तोत्र सुविस्तृतमतिर्न विभुविधातुम् । तीर्थेश्वरस्य कमठस्मयधूमकेतो स्तस्याहमेष किल संस्तवनं करिष्ये ।। २ ।। युरमम् ।। सामान्यतोऽपि तव वर्णयितुं स्वरूप मस्माद्दशाः कथमधीश ! भवन्त्यधीशाः ? । धृष्टोऽपि कौशिकशिशुर्यदिवा दिवान्धो, रूपं प्ररूपयति किं किल धर्मरश्मे: ? ।।३।।
मोहक्षयादनुभवन्नपि नाथ ! मयों, नूनं गुणान् गणयितुं न तव क्षमेत । कल्पान्तवान्तपयसः प्रकटोऽपि यस्मान्मीयेत केन जलधेर्ननु रत्नराशि : ? ॥४॥
For Private And Personal Use Only