________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ५२) त्रिसप्तसेवधिचमामिते (१९७३) सुवत्सरेष्टकं
विरच्यतेस सागराऽजितेन वाचकेन श-, मिदं सुमद्रमार्गमासि पूर्णिमादिने गुरौ ।
दधातु सर्वदेहिनाम् जिनेन्द्रमार्गयायिनाम् ॥१०॥
श्रीशंखेश्वरपार्श्वनाथजिनस्तोत्रम् ॥ २ ॥
( शार्दूलविक्रीडितवृत्तम् ) त्रैलोक्याऽऽधिपरम्परोपशमनक्षेमप्रधानौषधं
कैवल्याऽधिपति चराऽचरपति देवाधिपः संस्तुतम् । संख्याऽतीतवरेण्यचारुचरितं सम्यक्त्वसारप्रदं,
श्रीशंखेश्वरपार्श्वनाथमुनिपं ध्यायामि नित्यं मुदा ॥१॥ तिग्मांशुस्तनुतां जगाम भवतोऽनन्तप्रभाराशिभिः,
शितांशुः क्षयतां गतोऽपि नितरां तच्चिन्तया दूरगः । मन्ये भावतया नमन्ति परमं ते यान्ति धामाऽक्षयं,
श्रीशंखेश्वरपार्श्वनाथमुनिपं ध्यायामि नित्यं मुदा ॥२॥ स्थूलाभोगवता सहस्राणिना छत्रायितं मुनि ते,
तेन त्वं जगदीश ! कालभयहल्लोकेषु संस्तूयसे । इत्थं कस्तव पद्धति प्रभवति प्रोद्ध मन्तः परः,
श्रीशंखेश्वरपार्श्वनाथमुनिपं ध्यायामि नित्यं मुदा ॥३॥
For Private And Personal Use Only