________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(५१) विचित्रचित्रमण्डपत्रयाङ्किते सुमन्दिरे,
विराजमानराजराजचर्चितक्रमांबुज।। सरागरागहारिणे विहारिवृन्दतायिने,
नमोऽस्तु ते सदाऽऽदिनाथ ! केसरप्रिय ! प्रभो॥५॥ चमत्कृतिः सदा त्वदीयपादपङ्कजश्रिता,
प्रणामकारिमोदधारिणां सुलोचनांबुजे । विशिष्टशिष्टनकधास्वरूपदीप्तिदायिने,
नमोऽस्तु ते सदाऽऽदिनाथ ! केसरप्रिय ! प्रभो ॥६॥ विशालशालशालमानधामधारिणे महा
धराधरप्रधानदुर्गमागंभीतिहारिणे । सदा नदत्यहो यदीयतूर्यवृन्दमद्भुतं,
नमोऽस्तु ते सदाऽऽदिनाथ ! केसरप्रियप्रभो ॥७॥ अमन्दमन्दभावनासुमेदपाटपाविने,
कलौ मलौघहारिणेऽवहारिणे सुदेहिनाम् । विभिन्न भिन्नचेतसोमखण्डितोग्रदीप्तये,
नमोऽस्तु ते मदाऽऽदिनाथ ! केसरप्रियप्रभो ॥८॥ स्वभावभाविताऽऽत्मना सुपुण्यशालिनाऽङ्गिना,
प्रभातकाल उत्तमं हि केसरप्रियाऽष्टकम् । सुखप्रदं सुमण्यते सदैकमावतोहदि, तदा क्रमेण दीव्यसंपदं श्रयत्म मानवः ॥९॥
For Private And Personal Use Only