________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४९)
प्रमोदभूलतावितानवारिवाहकोत्तमं,
भजध्वमेव मोदतः सुखोदधि गुरुं सदा ॥ ४ ॥ समस्तदेशकष्टलेशता गताऽऽशु शोषता,
निरन्तसेव्यसिद्धिरायतिक्षमा जनेऽजनि । यदीयदीव्यमूर्तिरत्नजातयोगतो जनाः,
श्रयध्वमेकमावत: सुखाम्बुधि गुरुं सदा ॥५॥ यदन्पकल्पना कृताऽपि भूरिसिद्धिसाधिका,
करालकालभूतभीतिहारिणी जगत्रये । भविष्यदाधिवारिणी प्रतारिणी मनोभुव
स्तमी ड्यमानमन्तु शर्मसागरं गुरुं मुदा ॥६॥ विशालशिष्टदृष्टिसारिणी यदुद्भवाऽभया,
चितिप्रकाण्डमादधाति भक्तिपुष्पसत्फलम् । विवेकवारिदानतोभवन्ति सर्वसंपदः,
स सद्गुरुः सुखान्धिरत्र जायतां विभृतये ॥ ७ ॥ यदन्तिकं सुशान्तिदं गता वरादरा नरा.
बभूवुरुचभावधारिणो महादयायुताः। भवाऽनलार्चिषाऽतिप्त जन्तुशीतलाऽम्बुदं,
नमन्तु तं सुखोदर्षि गुरुं सुमङ्गलप्रदम् ॥ ८॥ गुरुप्रभावकस्तुतिः कृताऽजिताब्धिना वरा,
सुवाचकोचमेन सिन्धुसप्तिभक्तिभूमि ते (१९७४) शरबसौ शुचौ सितेदलेऽष्टमीदिने शुमे, चिरं सुखप्रदाऽस्तु शुद्धधर्मतचधारिणाम् ॥९॥
For Private And Personal Use Only