________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४८) सूरीन्द्राऽजितसागरेण विदुषा लोकोपकारक्षमः,
यावत्सूर्यनिशाकरं विजयतां ग्रन्थोऽयमुया शुभः ॥३॥
श्रीसुखसागरसद्गुरुस्तुतिः॥
(पश्चचामरछन्दः। प्रचण्डचण्डमुण्डमोहमारमारिहारिणं,
विशुद्धशुद्धिसाधनप्रसाधनप्रसाधकम् । प्रसबसन्नताङ्गिमङ्गिनं सदाननाऽम्बुजं,
भजन्तु जन्तुजातयः सुखोदधिं सुखाऽऽप्तये ॥१॥ मुशान्तसन्ततिः सतां निवृत्तवृत्तिसेविनी,
यदीयपादपङ्कजोन्नति प्रणम्य निर्मला । सुधासुधाविधायकं निपाय यद्वचोऽमृतं,
बभूव तं सुखोदधि गुरुं मजस्व भावतः ॥२॥ अमेयमानशालिनो मनखिमुख्यगामिनो,
भवोदधिप्लवोपमक्रियामनेकपाविनीम् । निरीक्ष्य यत्कृपानिधेः सकाशतोऽन्वहं स्वयं,
शुभक्रियारता बभूवुराश्रयन्तु तं गुरुम् ॥३॥ अनन्तशान्तबोधवारिराशिमुन्नताशयं, .निजोरदीव्य भावनाप्रभावना शिवाशिवम् ।
For Private And Personal Use Only