________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २६ ) पायाद्वःश्रुतदेवता श्रितवती, शुक्लाऽम्बुजं निर्मलं,
सम्यक्तत्वविलासरक्तहृदया, विस्तारितानन्दका । यत्प्रेक्ष्याऽलसमानसास्थितवती, सद्भ्रामरीसन्ततिः,
सन्त्यज्याऽश्रमिताऽमरद्रुमसुमं, सौरभ्यसंराजितम्॥४॥
श्रीमदजितनाथजिनस्तुतिः ॥ २ ॥
( द्रुतविलम्बितवृत्तम् ) अजितनाथ ! तवाऽङ्घ्रिसरोजक, हृदयसअनि चारु विचिन्तये। स्वजननोत्सव इन्द्रगणस्तुतं, कनकभूधरसानुविराजितम् १ जिनगणं विमदं स्तुत मानवाः ! शमितसंसृतिभूतमहापदम् ।
अमरनाथगणाः स्तुतिमन्वहं, विदधतेऽस्य महोत्सवधारिणः२ प्रदिश मेऽन्तिमधामनिवासक, त्रिभुवनाऽर्तिनिवारकनिर्मले । जिनमतश्रुत! सर्वसुखाऽऽस्पदे, विततमोक्षयथेष्टसहायद!॥३॥ सितगरुत्मदधिष्ठितविग्रहा, विशददीप्तिपविं दधतीश्वरी । वितरतु चतरुग् भुवि मानसी, भवभयचयकारक!शं सदा।४।
श्रीमदजितनाथजिनस्तुतिः (२)
(पुष्पिताग्रावृत्तम् ) जिनवरमजितं स्तुवे मुदाऽहं,
त्रिभुवनपालकमद्वितीयकीर्तिम् ।
For Private And Personal Use Only