________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२३) श्रीमहावीरजिनस्तवनम् ॥ २४ ॥
( शार्दूलविक्रीडितम् ) यद्भक्तिप्रसरत्प्रभावकलितां लीलामखण्डश्रियां,
सद्भाग्यैकवशंवदां सुरगवी-माराधयन्ति क्षणात् । तत्सत्याश्चितवाक् सुधारसमयो-विश्वाऽऽगमार्थोऽत्र या, श्रेयःसंजननो भवत्वतितरां, लोकत्रयस्थायिनाम् ॥१॥ श्रेयःसन्ततिवर्द्धकं भवभय-क्षोभप्रदं भास्वरं, दुर्वारेन्द्रियवैरिवारविजयि, क्षीरोदकन्याश्रितम् । यत्पादाम्बुजयुग्मकं विलसति, क्षेमंकरं शान्तिदं,
सोऽयं वृद्धिविधायको विजयतां, श्रीवर्द्धमानप्रभुः ॥२॥ चेमं सन्तनुते निकृन्तति मतितोमं च यद्दर्शनं, संसाराऽम्बुनिधिं करोति सुतरं, सौभाग्यरत्नाकरः । सद्विद्या वशवर्तिनीं जनयति, द्वेषप्रपश्चाऽन्तकं,
भूयात्सर्वसुखप्रदस्त्रिजगतां, सिद्धार्थभूपाङ्गजा ॥३॥ यन्मूर्तीन्दुकलाः सुभव्य जलधीन्-कल्लोलितान्कुर्वते, मिथ्यात्वोजनितां तमस्ततिमरं, संप्रापयन्ति क्षयम् । सौजन्याऽभयभावनौषधिगणान्संवर्द्धयन्ते मुदा, तं देवेन्द्रसमर्चिताऽधिकमलं, वीरप्रभु नौम्यहम् ॥ ४॥ पापद्वारिधिमुत्तरन्ति भयदं, पादारविन्दश्रितादीव्यान्भोगगणान्जन्ति नितरां, संपूजनीयाः सताम् ।
For Private And Personal Use Only