________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २२ ) श्रीपार्श्वनाथ जिनस्तवनम् ॥ २३ ॥
( पञ्चचामरचन्दः ) जगत्प्रकामकामितप्रदानदक्षतायुतं,
निजस्वरूपभाविताऽऽत्मतत्वसवसेवितम् । गतप्रमादसंगतिं श्रितप्रकृष्टसंगति,
भजध्वमक्षयप्रभं प्रभाविपार्श्वमीश्वरम् ।।१।। नृपाऽश्वसेननन्दनं सुमन्दरागतारकं,
निवारकं विपत्तिकारकैनसां सुमानसम् । सुसंपदाऽतिभूषिताऽमृताशिपूजितक्रम,
समन्ततोविशालचारुदेशनाकृताऽभयम् ॥२॥ व्यधत्त भक्तिवत्सलाञ्जनाञ्जनङ्गमानपि,
क्षणादयाईचेतसःसुभद्रचिन्मयाऽऽत्मकः । तुलाऽभिधानराशिमादधान उत्तमोत्तमः,
प्रसन्नसन्मपापराशिरिष्टभूतिभूषितः ॥३॥ प्रभूतभव्यसंपदा सुधामधामनि स्वके,
निजश्रिया विराजितः स्थितः सुखप्रदः सताम् । समानमोहलोभरोषवादलौघमारुतो
विजायतां स पार्श्वनाथ इष्टसिद्धिसाधकः ॥४॥ भवन्तु पार्थतीर्थकुनखप्रभाप्रभाकरः,
सुभव्यभव्यमानसाऽम्बुजालिबोधकारकः । प्रकामशाश्वतप्रभानिर्षि यदीयमुष्णगुनिरीक्ष्य तत्पदेच्छया भ्रमनिवेति लक्ष्यते ॥५॥
For Private And Personal Use Only