________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१६७) सुप्रापेयं शिवपदगतिर्येन चक्रे स्वभावाद् , __ दुष्प्रेक्ष्योऽयं प्रवचनमहासागरो येन दृष्टः । दुर्वाश्यं कुमतिवनिता वारिता येन सद्या,
तं सूरीशं भजत सततं हारिभद्राऽभिधेयम् ।। ६ ॥ ज्ञानागारं प्रथितविभवं छिन्नदारिद्यजालं,
लीनं स्वान्तं जिनवरपदे पुण्यसद्भावहेतौ । योगाङ्गानां प्रथनपटुताधारकं सुप्रसिद्धं,
मरीशं तं स्तुतिविषयता हारिभद्रं प्रकुर्वे ।। ७ ।। येनाख्यातः प्रविदितदयाधर्म एषोऽत्रलोके,
येन त्राता सकलजनता दुर्गतौ या पतन्ती । येनाऽऽक्रान्ता जलधिवसना निर्निमित्तोपदेशाद् , ___ वन्दे नित्यं विबुधविनतं हारिभद्रं यतीन्द्रम् । ८॥ मोहाधीनं जगदतिदयः संनिरीक्ष्य क्षमी यः,
तत्क्षमाय क्षपितविकथो बद्धकतः सुलचः। चक्रे ग्रन्थांललितविषयान्माहवैरिप्रणाशान् , - वन्दे नित्यं भविकशरणं हारिभद्रं मुनीन्द्रम् ॥९॥ सूरिस्तोत्रं मुनिगुणयुतेनाऽजितोदन्वतेदं,
जग्रन्थारं हतकलिमलं मोक्षलक्ष्मीनिशान्तम् । श्रोत्राधीनं स्मरणविषयं ये सदा तन्वते तत् , सम्पधन्ते विदितविभवास्ते सुरेन्द्रादिलक्ष्मीम्॥१०॥
For Private And Personal Use Only