________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धात्मानं श्रुतमतिनिधि गुरुं हरिमद्रकं. सूरीशं तं शुभगुणयुतं नमामि गुणोदधिम् ॥१॥
( मन्दाक्रान्ता वृत्तम् ) सम्पनार्थ शुभपदगतं शुद्धतत्वाऽवबोधं,
तत्त्वज्ञानां सततसुखदं पूजनीयक्रमाऽब्जम् । सद्भव्यानां भवभयहरं केवलं शान्तमूर्ति,
नन्नम्येऽहं विदितविभवं हारिभद्रं मुनीन्द्रम् ।। २॥ मिथ्यातत्त्वप्रबलतमसा भेदने भानुमन्तं,
मिथ्यामोहनुभितमनसा मोदने यत्नवन्तम् । संसाराऽन्धी विषयविषमे मजतां तारकं तं, __ वन्दे नित्यं सकलसुखदं हारिभद्रं मुनीशम् ॥ ३॥ जैनो धर्मः प्रवचनमयो येन संपादितोऽलं,
शास्ता धर्म सुनयविकलप्राणिनां यो विशुद्धम् । सद्भावानामुचितसरणीमादिशन्तं तमीशं, ___ध्यायामि श्रीविभवनिलयं हारिमद्रं मुनीन्द्रम् ॥४॥ चक्रे येन प्रशममतिना ग्रन्थवारो वरिष्टा,
येनोद्दभ्रे जिनमतिगणो दुर्विपाकादनन्तात् । छिया पाशं मदनविषयं यो विशुद्धाशयोऽभूत् ,
वन्दे भूयः प्रशमविभवं हारिभद्रं यतीन्द्रम् ॥५॥
For Private And Personal Use Only