________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १११) परिणतिमनवेक्ष्य प्रेमतः पापपुलं,
कृतवति मयि मूढे हा विचित्रो विपाकः । स्फुरति कटुफलानां कर्मणां सचितानां,
फलति हि मनुजस्य क्षीणमोहस्य कन्पः ॥७॥ तिर्यक्षु भूरिदुःखानि, जङ्गमस्थावरेषु च ॥ भेदनच्छेदनादीनि, सोढानि परमावतः ॥७२॥ नरजातौ दरिद्राणां, कुलेषु दीनता कृता । प्रत्यहं याचिता लोका-नतु पूर्णो मनोरथः ॥७३ ॥ पापोदयसमुद्भता, पीडां कर्मवशंगतः । भुक्तवान्भवपाथोधौ, निमग्नो भूरिशोऽभवम् ॥ ७४ ॥ अपराधसहस्राणि, कृतानि दुर्गुणाश्रयात् । भवच्छरणहीनेन, दीनता धारिताऽनिशम् ॥७५ ॥ कालो निरर्थको यातो-मोहकर्मवशस्य मे। गृहीता तमसि भ्रान्त्या, रूप्पबुद्ध्या हि शुक्तिका॥७६॥ पिपासाकुलितोऽत्यन्तं, मृगो मरीचिकाधिया । भ्रमन्नाशमवाप्नोत, तथाहं जडचेतसा ॥ ७७॥ प्रबलज्वरसन्तप्तो-यथाऽनं न बुभुक्षति । तथा कर्मोदयेनैव, धर्मध्याने न मे रुचिः ॥७८ ॥ यदा ज्वरोपशान्तिः स्या-तदा भोज्यं प्रियं मतम् । अशुभे कर्मणि चीणे, त्वदीयं शरणं भवेत् ॥ ७९ ॥
For Private And Personal Use Only