________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ११०) कर्माऽकर्मवतोर्मेदः, प्रत्यक्षो भासते तथा ॥ अधिगानां यथा द्वीप-स्तथाऽऽधारस्त्वमन्वहम् ।।६१॥ सुधार्तानां यथा भोज्यं, वृषितानां यथा जलम् ॥ पक्षिणां च यथाकाशो-रोगिणा-मौषधिर्यथा ॥ २ ॥ यथा बालहिता माता, हंसस्य मानसं यथा ।। शून्यारण्यप्रियो हस्ती, पाम्रभोगीव कोकिलः ॥६३॥ सत्याः पतियथा मेघ-श्चातकस्य च जीवनम् ॥ मालती षट्पदस्येव, चकोरस्य यथा शशीः ॥६४॥ लुब्धस्य धनसंपत्ति-स्तथा त्वं मम वल्लभः ॥ त्वमेव भवपाथोधौ, तारकः सर्वदेहिनाम् ॥६५॥ हिंसास्तेयमृषावाद-मानक्रोधपरिग्रहाः ॥ निषेविता मयाऽजस्रं, भ्रान्तेन मूढचेतसा ॥६६ ॥ विराधना सानां च रागद्वेषेण निर्मिता ।। कलङ्कानि प्रदत्तानि, बहूनि भूरिनिन्दया ॥६७ ॥ कषायविषयान्धेन, परवचनकर्मणा ।। निकाचितानि कर्माणि, बद्धानि भवद्भुिना ॥६८॥ चीर्णा मिथ्याक्रिया मोदात् , कारिताऽनुमतापि च ॥ अष्टादश महापाप-स्थानानि सेवितानि वै ॥६९ ॥ एवंविधानि कर्माणि, क्रूराणि विविधानि च ।।। नरकस्थानयोग्यानि, विहितानि पुरा मया ॥७०॥
For Private And Personal Use Only