________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १०२) मानन्दमन्दिरमियत्ति विशुद्धभावः,
___ संपन्नसर्वविभवः सुतरां दयालुः । प्राचीनपुण्यनिचयोदयदीव्यदृष्टिः,
सर्वज्ञमाषितशुभागमतत्ववेदी ॥२४॥ मानन्दमन्दिरमनन्पसमृद्धिगेहं,
देवाऽसुराधिपतयोऽपि निरीचितुं नो । शक्ताः स्वचिन्तितविधानपटुस्वभावा:, . पुण्योज्झितः पदमनुत्तममेति नैव ॥२५॥ मानन्दमन्दिरमिदं स्तवनं स्तवाह,
शान्तात्मनाजितमहोदधिना प्रणीतम् । विश्वात्मनां सुखदमस्तु सदेह लोके,
लोकन्तरेऽप्रमितशर्मनिदानमेतत् ॥२६ ॥ इमं स्तवं यः प्रपठेत्प्रभाते ।
सजीवलोके सुखसंपदाढ्यः ।। सम्यक्त्वशुद्धः समतानिधानः ।
शिवश्रियं गच्छति निर्मलां वै ॥२७॥
इत्यानन्दमन्दिरनाम मङ्गलं समाप्तम् ॥१॥
For Private And Personal Use Only