________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १०१ )
घनश्च यौवनं मत्वा, चञ्चलं क्षणभङ्गुरम् । चत्वारि मंगलान्येव, प्रधानानि विजानताम् तत्प्रभावान्महाकष्टं विलयं याति सर्वथा ॥ वैरिस्तेन महाधूर्ता - श्छलयंति नच क्वचित् सिंहसपदियः क्रूरा - जन्तवो यान्ति दूरतः ।। यच्छरणान्महारोगाः, शाम्यन्ति प्राणिनां सदा ज्वरस्तद्ध्यानतो नश्ये- द्विघ्नवल्लीच शुष्यति ॥ भूतप्रेतपिशाचाश्व, विघातं कर्तुमक्षमाः चतुःशरणतो भूपाः, सुरेन्द्रा नागदेवताः || स्वयमेव वशं यान्ति, शुद्धभावेन देहिनाम् चतुःशरणतः पापं, त्वरयैव पलायते || सत्यमेतद्विजानीया - तादर्यनादादिवोरगः
आनन्दमन्दिरभिदं महसां निधानं,
सर्वापदां शमनकं जगति प्रधानम् । त्रस्थितो विनयशानिजनोऽवधानं,
संपद्यते परमस्त्रमयं पिधानम्
आनन्दमन्दिरतुलां वहते न कोऽपि सर्वार्थलब्धिनिचयः सुरमाननीयः । यत्प्राप्तितोऽस्खलित पुण्यवतां जनानामर्थनीयमितरहि किञ्चिदस्ति
For Private And Personal Use Only
॥ १६ ॥
॥ १७ ॥
॥ १८ ॥
॥ १९ ॥
॥ २० ॥
॥ २१ ॥
॥ २२ ॥
॥ २३ ॥