________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
સદાચારનું મહત્ત્વ.
(१७)
धर्मव्यवहारकर्माणि सेवस्व स्वाधिकारतः । मा व्यवहारनयं मुश्च धर्मतीर्थस्य जीवकम् ॥ २०९ ॥ वर्णिता धर्मसंस्कारा धर्मशास्त्रेषु ये शुभाः। धर्मव्यवहारदाढर्याय कर्तव्याः स्वाधिकारतः ॥ २१ ॥ यतितव्यं सदा सद्भिः साधर्म्यभक्तिकर्मसु । लोकानां सुखदं कर्म कर्तव्यं स्वात्मशक्तितः ॥ २११ ॥ कुर्वन्तः कर्म केऽप्यत्र निष्कर्माणः स्वचित्ततः। निष्क्रियास्ते क्रियावन्तो रागादिभावसंयुताः ॥ २१२ ॥ मार्गानुसारिधर्मस्य द्योतकानि विशेषतः। सेव्यानि धर्मकर्माणि मोक्षसाधकमानवैः ॥ २१३ ॥ मैत्र्यादिभाववृद्धयर्थं वित्ततश्चत्रियोगतः। विश्वस्मिन् कर्म कर्तव्यं लोकानां पूज्यसज्जनैः ॥ २१४ ॥ सामाजिकहितार्थाय यानि कर्माणि सन्ति वै । सर्वस्वार्थान् परित्यज्य तानि सेव्यानि मानवैः ॥ २१५ ॥ मह्यां शान्तिप्रचारार्थं देया सात्विकदेशना । सद्भिः शान्तिप्रवन्धैश्च स्थातव्यं शान्तिकर्मसु ॥ २१६ ॥ दोषयुक्तान् जनान् दृष्ट्वा कर्तव्या करुणा सदा । तेषु गुणप्रचारार्थं वर्तितव्यं स्वशाक्ततः ॥ २१७॥ आविर्भूता गुणा यस्य क्षमाद्या हृदये शुभाः। गुणीभूतो जनः सैव प्रचारयति सद्गुणान् ॥ २१८ ।। धैर्यौदार्यगुणादीनां प्रादुर्भावो यतो भवेत् । कर्तव्यं तदनुष्ठानं गुणानुरागिभिः शुभम् ॥ २१९ ॥
For Private And Personal Use Only